|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.162. अध्यायः 162
Mahabharata - Udyoga Parva - Chapter Topics
भीमादिभिर्दुर्योधनंप्रति उलूकद्वारा प्रतिसन्देशप्रेषणम् ॥ 1 ॥

Mahabharata - Udyoga Parva - Chapter Text
5-162-0(37429)
सञ्जय उवाच। 5-162-0x(3861)
उलूकस्त्वर्जुनं भूयो यथोक्तं वाक्यमब्रवीत्।
आशीविषमिव क्रुद्धं तुदन्वाक्यशलाकया ॥ 5-162-1(37430)
तस्य तद्वचनं श्रुत्वा रुषिताः पाण्डवा भृशम् ।
प्रागेव भृशसंक्रुद्धाः कैतव्येनापि धर्षिताः ॥ 5-162-2(37431)
आसनेषूदतिष्ठन्त बाहूंश्चैव प्रचिक्षिपुः।
आशीविषा इव क्रुद्धा वीक्षाञ्चक्रुः परस्परम् ॥ 5-162-3(37432)
अवाक्छिरा भीमसेनः समुदैक्षत कैतवम्।
नेत्राभ्यां लोहितान्ताभ्यामाशीविष इव श्वसन् ॥ 5-162-4(37433)
आर्तं वातात्मजं दृष्ट्वा क्रोधेनाभिहतं भृशम् ।
उत्स्मयन्निव दाशार्हः कैतव्यं प्रत्यभाषत ॥ 5-162-5(37434)
प्रयाहि शीघ्रं कैतव्य ब्रूयाश्चैव सुयोधनम् ।
श्रुतं वाक्यं गृहीतोर्थो मतं यत्ते तथास्तु तत् ॥ 5-162-6(37435)
एवमुक्त्वा महाबाहुः केशवो राजसत्तम।
पुनरेव महाप्राज्ञं युधिष्ठिरमुदैक्षत॥ 5-162-7(37436)
सृञ्जयानां च सर्वेषां कृष्णस्य च यशस्विनः।
द्रुपदस्य सपुत्रस्य विराटस्य च संनिधौ ॥ 5-162-8(37437)
भूमिपानां च सर्वेषां मध्ये वाक्यं जगाद ह।
उलूकोऽप्यर्जुनं भूयो यथोक्तं वाक्यमब्रवीत् ॥ 5-162-9(37438)
आशीविषमिव क्रुद्धं तुदन्वाक्यशलाकया।
कृष्णादींश्चैव तान्सर्वान्यथोक्तं वाक्यमब्रवीत् ॥ 5-162-10(37439)
उलूकस्य तु तद्वाक्यं पापं दारुणमीरितम् ।
श्रुत्वा विचुक्षुभे पार्थो ललाटं चाप्यमार्जयत् ॥ 5-162-11(37440)
तदवस्थं तदा दृष्ट्वा पार्थं सा समितिर्नृप ।
नामृष्यत महाराज पाण्डवानां महारथाः ॥ 5-162-12(37441)
अधिक्षेपेण कृष्णस्य पार्थस्य च महात्मनः।
श्रुत्वा ते पुरुषव्याघ्राः क्रोधाञ्जज्वलुरच्युत ॥ 5-162-13(37442)
धृष्टद्युम्नः शिखण्डी च सात्यकिश्च महारथः।
केकया भ्रातरः पञ्च राक्षसश्च घटोत्कचः ॥ 5-162-14(37443)
द्रौपदेयाभिमन्युश्च धृष्टकेतुश्च पार्थिवः ।
भीमसेनश्च विक्रान्तो यमजौ च महारथौ ॥ 5-162-15(37444)
उत्पेतुरासनात्सर्वे क्रोधसंरक्तलोचनाः।
बाहुन्प्रगृह्य रुचिरान्रक्तचन्दनरूषितान्।
अङ्गदैः पारिहार्यैश्च केयूरैश्च विभूषितान् ॥ 5-162-16(37445)
दन्तान्दन्तेषु निष्पिष्य सृक्किणी परिलेलिहन् ।
तेषामाकारभावज्ञः कुन्तीपुत्रो वृकोदरः ॥ 5-162-17(37446)
उदतिष्ठत्स वेगेन क्रोधेन प्रज्वलन्निव।
उद्वृत्य सहसा नेत्रे दन्तान्कटकटाय्य च ॥ 5-162-18(37447)
हस्तं हस्तेन निष्पिष्य उलूकं वाक्यमब्रवीत्।
अशक्तानामिवास्माकं प्रोत्साहननिमित्तकम् ॥ 5-162-19(37448)
श्रुतं ते चवनं मूर्ख यत्त्वां दुर्योधनोऽब्रवीत्।
तन्मे कथयतो मन्द श्रृणु वाक्यं दुरासदम् ॥ 5-162-20(37449)
सर्वक्षत्रस्य मध्ये तं यद्वक्ष्यसि सुयोधनम् ।
श्रृण्वतः सूतपुत्रस्य पितुश्च त्वं दुरात्मनः ॥ 5-162-21(37450)
अस्माभिः प्रीतिकामैस्तु भ्रातुर्ज्येष्ठस्य नित्यशः।
मर्षितं ते दुराचार तत्त्वं न बहु मन्यसे ॥ 5-162-22(37451)
प्रेषितश्च हृषीकेशः शमाकाङ्क्षी कुरून्प्रति ।
कुलस्य हितकामेन धर्मराजेन धीमता ॥ 5-162-23(37452)
त्वं कालचोदितो नूनं गन्तुकामो यमक्षयम् ।
गच्छस्वाहवमस्माभिस्तच्च श्वो भविता ध्रुवम् ॥ 5-162-24(37453)
मयापि च प्रतिज्ञातो वधः सभ्रातृकस्य ते।
स तथा भविता पाप नात्र कार्या विचारणा ॥ 5-162-25(37454)
वेलामतिक्रमेत्सद्यः सागरो वरुणालयः ।
पर्वताश्च विशीर्येयुर्मयोक्तं न मृषा भवेत् ॥ 5-162-26(37455)
सहायस्ते यदि यमः कुबेरो रुद्र एव वा।
यथाप्रतिज्ञं दुर्बुद्धे प्रकरिष्यन्ति पाण्डवाः ।
दुःशासनस्य रुधिरं पाता चास्मि यथेप्सितम् ॥ 5-162-27(37456)
यश्चेह प्रतिसंरब्धः क्षत्रियो माभियास्यति।
अपि भीष्मं पुरुस्कृत्य तं नेष्यामि यमक्षयम् ॥ 5-162-28(37457)
यच्चैतदुक्तं वचनं मया क्षत्रस्य संसदि।
यथैतद्भविता सत्यं तथैवात्मानमालभे ॥ 5-162-29(37458)
भीमसेनवचः श्रुत्वा सहदेवोऽप्यमर्षणः ।
क्रोधसंरक्तनयनस्ततो वाक्यमुवाच ह ॥ 5-162-30(37459)
शौटीरशूरसदृशमनीकजनसंसदि।
श्रृणु पाप वचो मह्यं यद्वाच्यो हि पितात्वया ॥ 5-162-31(37460)
नास्माकं भविता भेदः कदाचित्कुरुभिः सह ।
धृतराष्ट्रस्य संबन्धो यदि न स्यात्त्वया सह ॥ 5-162-32(37461)
त्वं तु लोकविनाशाय धृतराष्ट्रकुलस्य च।
उत्पन्नो वैरपुरुषः स्वकुलघ्नश्च पापकृत् ॥ 5-162-33(37462)
जन्मप्रभृति चास्माकं पिता ते पापपूरुषः ।
अहितानि नृशंसानि नित्यशः कर्तुमिच्छति ॥ 5-162-34(37463)
तस्य वैरानुषङ्गस्य गन्तास्म्यन्तं सुदुर्गमम्।
अहमादौ निहत्य त्वां शकुनेः संप्रपश्यतः ॥ 5-162-35(37464)
ततोऽस्मि शकुनिं हन्ता मिषतां सर्वधन्विनाम्।
भीमस्य वचनं श्रुत्वा सहदेवस्य चोभयोः ॥ 5-162-36(37465)
उवाच फाल्गुनो वाक्यं भीमसेनं स्मयन्निव।
भीमसेन न ते सन्ति येषां वैरं त्वया सह ॥ 5-162-37(37466)
मन्दा गृहेषु सुखिनो मृत्युपाशवशं गताः।
उलूकश्च न ते वाच्यः परुषं पुरुषोत्तम ॥ 5-162-38(37467)
दूताः किमपराध्यन्ते यथोक्तस्यानुभाषिणः ।
एवमुक्त्वा महाबाहुर्भीमं भीमपराक्रमम् ॥ 5-162-39(37468)
धृष्टद्युम्नसुखान्वीरान्सुहृदः समभाषत।
श्रुतं वस्तस्य पापस्य धार्तराष्ट्रस्य भाषितम् ॥ 5-162-40(37469)
कुत्सनं वासुदेवस्य मम चैव विशेषतः।
श्रुत्वा भवन्तः संरब्धा अस्माकं हितकाम्यया ॥ 5-162-41(37470)
प्रभावाद्वासुदेवस्य भवतां च प्रयत्नतः।
समग्रं पार्थिवं क्षत्रं सर्वं न गणयाम्यहम् ॥ 5-162-42(37471)
भवद्भिः समनुज्ञातो वाक्यमस्य यदुत्तरम् ।
उलूके प्रापयिष्यामि यद्वक्ष्यति सुयोधनम् ॥ 5-162-43(37472)
श्वो भूते कत्थितस्यास्य प्रतिवाक्यं चमूमुखे।
गाण्डीवेनाभिधास्याकमि क्लीबा हि वचनोत्तराः । 5-162-44(37473)
ततस्ते पार्थिवाः सर्वे प्रशशंसुर्धनञ्जयम् ।
तेन वाक्योपचारेण विस्मिता राजसत्तमाः ॥ 5-162-45(37474)
अनुनीय च तान्सर्वान्यथामान्यं यथावयः।
धर्मराजं तदा वाक्यं तत्प्राप्यं प्रत्यभाषत ॥ 5-162-46(37475)
आत्मानमवमन्वानो न हि स्यात्पार्थिवोत्तमः ।
तत्रोत्तरं प्रवक्ष्यामि तव शुश्रूषणे रतः ॥ 5-162-47(37476)
उलूकं भरतश्रेष्ठ सामपूर्वमथोर्जितम् ।
दुर्योधनस्य तद्वाक्यं निशम्य भरतर्षभः ॥ 5-162-48(37477)
अतिलोहितनेत्राभ्यामाशीविष इव श्वसन् ।
स्मयमान इव क्रोधात्सृक्किणी परिसंलिहन् ॥ 5-162-49(37478)
जनार्दनमभिप्रेक्ष्य भ्रातॄंश्चैवेदमब्रवीत् ।
अभ्यभाषत कैतव्यं प्रगृह्य विपुलं भुजम् ॥ 5-162-50(37479)
उलूक गच्छ कैतव्य ब्रूहि तात सुयोधनम् ।
कृतघ्नं वैरपुरुषं दुर्मतिं कुलपांसनम् ॥ 5-162-51(37480)
पाण्डवेषु सदा पाप नित्यं जिह्मं प्रवर्तते।
स्ववीर्याद्यः पराक्रम्य पाप आह्वयते परान्।
अभीतः पूरयन्वाक्यमेष वैः क्षत्रियः पुमान् ॥ 5-162-52(37481)
स पापः क्षत्रियो भूत्वा अस्मानाहूय संयुगे।
मान्यामान्यान्पुरस्कृत्य युद्धं मा गाः कुलाधम ॥ 5-162-53(37482)
आत्मवीर्यं समाश्रिकत्य भृत्यवीर्यं च कौरव ।
आह्वयस्व रणे पार्थान्सर्वथा क्षत्रियो भव ॥ 5-162-54(37483)
परवीर्यं समाश्रित्य यः समाह्वयते परान्।
अशक्तः स्वयमादातुमेतदेव नपुंसकम् ॥ 5-162-55(37484)
स त्वं परेषां वीर्येण आत्मानं बहुमन्यसे ।
कथमेवमशक्तस्त्वमस्मान्समभिगर्जसि ॥ 5-162-56(37485)
कृष्ण उवाच। 5-162-57x(3862)
मद्वचश्चापि भूयस्ते वक्तव्यः स सुयोधनः।
श्व इदानीं प्रपद्येथाः पुरुषो भव दुर्मते ॥ 5-162-57(37486)
मन्यसे यच्च मूढ त्वं न योत्स्यति जनार्दनः।
सारथ्येन वृतः पार्थैरिति त्वं न बिभेषि च ॥ 5-162-58(37487)
जघन्यकालमप्येतन्न भवेत्सर्वपार्थिवान्।
निर्दहेयमहं क्रोधात्तृणानीव हुताशनः ॥ 5-162-59(37488)
युधिष्ठिरनियोगात्तु फाल्गुनस्य महात्मनः ।
करिष्ये युध्यमानस्य सारथ्यं विजितात्मनः ॥ 5-162-60(37489)
यद्युत्पतसि लोकांस्त्रीन्यद्याविशसि भूतलम् ।
तत्रतत्रार्जुनरथं प्रभाते द्रक्ष्यसे पुनः ॥ 5-162-61(37490)
यच्चापि भीमसेनस्य मन्यसे मोघभाषितम् ।
दुःशासनस्य रुधिरं पीतमद्यावधारय ॥ 5-162-62(37491)
न त्वां समीक्षते पार्थो नापि राजा युधिष्ठिरः।
न भीमसेनो न यमौ प्रतिकूलप्रभाषिणम् ॥ ॥ 5-162-63(37492)
इति श्रीमन्महाभारते उद्योगपर्वणि उलूकदूतागमनपर्वणि द्विषष्ट्यधिकशततमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-162-12 समितिः सभा ॥ 5-162-31 शौटीरः सगर्वः। शूरो विक्रान्तः। मह्यं मम ॥ 5-162-55 नपुंसकं नपुंसकत्वं तव ॥ 5-162-63 समीक्षते गणयति ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|